प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः ।
साध्यनिर्देशः प्रतिज्ञा ।
उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः ।
तथा वैधर्म्यात् ।
साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्त उदाहरणम् ।
तद्विपर्ययाद्वा विपरीतम् ।
उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनयः ।
हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम् ।