वचनविघातोऽर्थविकल्पोपपत्त्या छलम् ।
तत् त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलञ्चेति ।
अविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् ।
सम्भवतोऽर्थस्यातिसामान्ययोगादसम्भूतार्थकल्पना सामान्यछलम् ।
धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचारच्छलम् ।
वाक्छलमेवोपचारच्छलं तदविशेषात् ?
न; तदर्थान्तरभावात् ।
अविशेषे वा किञ्चित्साधर्म्यादेकच्छलप्रसङ्गः ।