सद्यः कालान्तरे च फलनिष्पत्तेः संशयः ।
कालान्तरेणानिष्पत्तिर्हेतुविनाशात् ।
प्राङ्निष्पत्तेर्वृक्षफलवत्तत् स्यात् ।
नासन्न सन्न सदसत्सदसतोर्वैधर्म्यात् ।
उत्पादव्ययदर्शनात् ।
बुद्धिसिद्धं तु तदसत् ।
आश्रयव्यतिरेकाद् वृक्षफलोत्पत्तिवदित्यहेतुः ।
प्रीतेरात्माश्रयत्वादप्रतिषेधः ।
न पुत्रपशुस्त्रीपरिच्छदहिरण्यान्नादिफलनिर्देशात् ।
तत्सम्बन्धात् फलनिष्पत्तेस्तेषु फलवदुपचारः ।