सर्वमनित्यमुत्पत्तिविनाशधर्मकत्वात् ।
नानित्यतानित्यत्वात् ।
तदनित्यत्वमग्नेर्दाह्यं विनाश्यानुविनाशवत् ।
नित्यस्याप्रत्याख्यानं यथोपलब्धिव्यवस्थानात् ।