दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः ।
दोषनिमित्तं रूपादयो विषयाः सङ्कल्पकृताः ।
तन्निमित्तं त्ववयव्यभिमानः ।