विद्याऽविद्याद्वैविध्यात् संशयः ।
तदसंशयः पूर्वहेतुप्रसिद्धत्वात् ।
वृत्त्यनुपपत्तेरपि तर्हि न संशयः ।
कृत्स्नैकदेशावृत्तित्वादवयवानामवयव्यभावः ।
तेषु चावृत्तेरवयव्यभावः ।
पृथक् चावयवेभ्योऽवृत्तेः ।
न चावयव्यवयवाः ।
एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेरप्रश्नः ।
अवयवान्तरभावेऽप्यवृत्तेरहेतुः ।
केशसमूहे तैमिरिकोपलब्धिवत्तदुपलब्धिः ।
स्वविषयानतिक्रमेणेन्द्रियस्य पटुमन्दभावाद् विषयग्रहणस्य तथाभावो नाविषये प्रवृत्तिः ।
अवयवावयविप्रसङ्गाश्चैवमाप्रलयात् ।
न प्रलयोऽणुसद्भावात् ।
परं वा त्रुटेः ।