Gautameeyam
द्वितीयोऽध्यायः
प्रथममाह्निकम्
Back
प्रमाणसामान्यपरीक्षाप्रकरणम्
२.१.८

प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेः ।

सूत्रम्
२.१.९

पूर्वं हि प्रमाणसिद्धौ नेन्द्रियार्थसन्निकर्षात् प्रत्यक्षोत्पत्तिः ।

सूत्रम्
२.१.१०

पश्चात् सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः ।

सूत्रम्
२.१.११

युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावो बुद्धीनाम् ।

सूत्रम्
२.१.१२

त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः ।

सूत्रम्
२.१.१३

सर्वप्रमाणप्रतिषेधाच्च प्रतिषेधानुपपत्तिः ।

सूत्रम्
२.१.१४

तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः ।

सूत्रम्
२.१.१५

त्रैकाल्याप्रतिषेधश्च शब्दादातोद्यसिद्धिवत्तत्सिद्धेः ।

सूत्रम्
२.१.१६

प्रमेया च तुला प्रामाण्यवत् ।

सूत्रम्
२.१.१७

प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः ।

सूत्रम्
२.१.१८

तद्विनिवृत्तेर्वा प्रमाणान्तरसिद्धिवत् प्रमेयसिद्धिः ।

सूत्रम्
२.१.१९

न प्रदीपप्रकाशवत् तत्सिद्धेः।

सूत्रम्
२.१.२०

क्वचिन्निवृत्तिदर्शनादनिवृत्तिदर्शनाच्च क्वचिदनेकान्तः।

सूत्रम्