अत्यन्तप्रायैकदेशसाधर्म्यादुपमानासिद्धिः ।
प्रसिद्धसाधर्म्यादुपमानसिद्धेर्यथोक्तदोषानुपपत्तिः ।
प्रत्यक्षेणाप्रत्यक्षसिद्धेः
नाप्रत्यक्षे गवये प्रमाणार्थमुपमानस्य पश्यामः ।
तथेत्युपसंहारादुपमानसिद्धेर्नाविशेषः ।