वर्त्तमानाभावः पततः पतितपतितव्यकालोपपत्तेः
तयोरप्यभावो वर्तमानाभावे तदपेक्षत्वात् ।
नातीतानागतयोरितरेतरापेक्षासिद्धिः ।
वर्तमानाभावे सर्वाग्रहणम्; प्रत्यक्षानुपपत्तेः ।
कृतताकर्तव्यतोपपत्तेस्तूभयथाग्रहणम् ।