न; आत्मप्रतिपत्तिहेतूनां मनसि सम्भवात् ।
ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् ।
नियमश्च निरनुमानः ।