पूर्वाभ्यस्तस्मृत्यनुबन्धात् जातस्य हर्षभयशोकसम्प्रतिपत्तेः ।
पद्मादिषु प्रबोधसम्मीलनविकारवत्तद्विकारः ।
न; उष्णशीतवर्षाकालनिमित्तत्वात् पञ्चात्मकविकाराणाम् ।
प्रेत्याहाराभ्यासकृतात् स्तन्याभिलाषात् ।
अयसोऽस्कान्ताभिगमनवत्तदुपसर्पणम् ।
न; अन्यत्र प्रवृत्त्यभावात् ।
वीतरागजन्मादर्शनात् ।
सगुणद्रव्योत्पत्तिवत् तदुत्पत्तिः ।
न; सङ्कल्पनिमित्तत्वाद्रागादीनाम् ।