स्थानान्यत्वे नानात्वादवयविनानास्थानत्वाच्च संशयः ।
त्वगव्यतिरेकात् ।
न युगपदर्थानुपलब्धेः ।
विप्रतिषेधाच्च न त्वगेका ।
इन्द्रियार्थपञ्चत्वात् ।
न तदर्थबहुत्वात् ।
गन्धत्वाद्यव्यतिरेकाद् गन्धादीनामप्रतिषेधः ।
विषयत्वाव्यतिरेकादेकत्वम् ।
न; बुद्धिलक्षणाधिष्ठानगत्याकृतिजातिपञ्चत्वेभ्यः ।
भूतगुणविशेषोपलब्धेस्तादात्म्यम् ।