Gautameeyam
तृतीयोऽध्यायः
प्रथममाह्निकम्
Back
अर्थपरीक्षाप्रकरणम्
३.१.६२

गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः ।

सूत्रम्
३.१.६३

अप्तेजोवायूनां पूर्वं पूर्वमपोह्याकाशस्योत्तरः ।

सूत्रम्
३.१.६४

न सर्वगुणानुपलब्धेः ।

सूत्रम्
३.१.६५

एकैकश्येनोत्तरोत्तरगुणसद्भावादुत्तरोत्तराणां तदनुपलब्धिः ।

सूत्रम्
३.१.६६

विष्टं ह्यपरं परेण ।

सूत्रम्
३.१.६७

नः पार्थिवाप्ययोः प्रत्यक्षत्वात् ।

सूत्रम्
३.१.६८

पूर्वपूर्वगुणोत्कर्षात् तत्तत्प्रधानम् ।

सूत्रम्
३.१.६९

तद्व्यवस्थानं तु भूयस्त्वात् ।

सूत्रम्
३.१.७०

सगुणानामिन्द्रियभावात् ।

सूत्रम्
३.१.७१

तेनैव तस्याग्रहणाच्च ।

सूत्रम्
३.१.७२

न शब्दगुणोपलब्धेः ।

सूत्रम्
३.१.७३

तदुपलब्धिरितरेतरद्रव्यगुणवैधर्म्यात् ।

सूत्रम्